Shiv Raksha Stotra

Raj Shekhar, Vishal Mishra

ॐ नमः शिवाय

देवदेवस्य महादेवस्य पावनम् ।
चरितं देवदेवस्य महादेवस्य पावनम् ।
अपारं परमोदारं चतुर्वर्गस्यसाधनम् ॥ १ ॥
चरितं देवदेवस्य महादेवस्य पावनम् ।

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षांपठेन्नरः ॥ २ ॥
चरितं
चरितं देवदेवस्य महादेवस्य पावनम् ।

गंगाधरः शिरः पातु फालमर्धेन्दुशेखरः ।
नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥ ३ ॥
चरितं
चरितं देवदेवस्य महादेवस्य पावनम् ।

घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः ।
जिह्वां वागीश्वरः पातु कन्धरं शितिकन्धरः ॥ ४ ॥
चरितं
चरितं देवदेवस्य महादेवस्य पावनम् ।

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥ ५ ॥
चरितं
चरितं देवदेवस्य महादेवस्य पावनम् ।

हृदयं शंकरः पातु जठरं गिरिजापतिः ।
नाभिं मृत्युंजयः पातु कटिं व्याघ्राजिनाम्बरः ॥ ६ ॥
चरितं
चरितं देवदेवस्य महादेवस्य पावनम् ।

सक्थिनी पातु दीनार्तशरणागतवत्सलः ।
ऊरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७ ॥
चरितं
चरितं देवदेवस्य महादेवस्य पावनम् ।

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ।
चरणौ करुणासिन्धुः सर्वांगानि सदाशिवः ॥ ८ ॥
चरितं देवदेवस्य महादेवस्य पावनम् ।
चरितं
चरितं देवदेवस्य महादेवस्य पावनम् ।
चरितं

ॐ नमः शिवाय

Beliebteste Lieder von Pandit Jasraj

Andere Künstler von Film score